ratnavali -5-sanskritanuvadak pan. gulam dastageer books and stories free download online pdf in Hindi

रत्नावली-5-संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 5

मनुष्यस्य सहनशक्तिः विचारजागरणेन अभिवृद्धा भवति । प्रत्येक - वेदनारम्भः असह्यः भवति । शनैः शनैः च सा वेदना सह्या भवति । वेदनाभिः सहनशक्तिः अभिवृद्धा भवति, एवमेव अनेन प्रकारेण मनुष्यस्य अनन्त - आत्मविश्वासः अपि अभिवर्धमानः तिष्ठति । जीवनविषये आस्थाः गभीराः जायन्ते । इति चिन्तयन्तः पं. दीनबन्धु पाठक महोदयाः कतिपयदिनेषु निश्चिन्तः जाताः आसन् । शनैः शनैः चिन्तनेन असह्या पीडा सह्या जाता आसीत् । रत्नावली स्वपराभवे अपि हासस्य हास्यकरणस्य वा अध्ययनं कुर्वती अतिष्ठत् । तया ज्ञातम् आसीत् यत् अधुना तस्याः हासः एव समाजसम्मुखे विजयस्य कार्यं करिष्यति । अनेन प्रकारेण एव स्वपराजयस्य निगूहनं शक्यं भवेत् । विजयस्य च आनन्दः ग्राह्यः भवेत् । एतादृशी स्थितिः परिचिता जाता आसीत् पाठकमहोदयानां कृते । अतएव मन्दं - मन्दं रत्नावल्याः विषये अपि वीतचिन्ताः जाताः आसन् । रत्नायाः पुत्रः तारापतिः शनैः शनैः अभिवर्धमानः भवति स्म । सम्पूर्णदिवसे तस्य बालक्रीडाः दृष्ट्वा रत्नावली पतिनिर्गमनस्य दुःखविस्मरणाय प्रयत्नपरा भूत्वा स्थिता आसीत् ।

पाठकमहोदयस्य भ्रातृजाया केशरबाई गङ्गेश्वरस्य व्यवहारेण क्षुब्धा जाता आसीत् । यतः भगिनीचिन्ता यावती करणीया तावती तेन नहि क्रियते स्म । सुदीर्घकालपर्यन्तं गृहे निवसन्तः सर्वे जनाः मुक्ततया वार्तालापं नाकुर्वन् । (पौरे) वलीके पाठकमहोदयः उपविष्टः आसीत् । केशरबाई गृहस्य अन्तर्भागात् निर्गत्य वलीके समागतवती। गङ्गेश्वरः अपि तारापतिं गृहीत्वा तत्रागतः । शान्तिः वलीकद्वारे एव स्थित्वा वार्तालापस्य आनन्दग्रहणे यथापूर्वम् अतिष्ठत् ।

केशरबाई उक्तवती- ‘‘लालाजीमहोदय ! तस्य दिनस्य मम विस्मरणं न भवति यदा तुलसी शिबिकायाम् उपविश्य अत्र आगतः आसीत् ।’’

पाठकमहोदयैः उक्तम् - ‘‘गणपतेः - पित्रा सह मम मित्रता आसीत् । तस्य कथनं तुलसी न परिहरति स्म । अतएव अयं सम्बन्धः सम्पन्नतां गतः ।’’

गड्गेश्वरेण स्वक्रोधः प्रकटीकृतः उक्तं च - ‘‘महान् विद्वान् भूत्वा भ्रमति स्म । कपर्दिकाद्वयस्य प्रज्ञा नास्ति । अरे तात, विरागी भवितुकामः तदा विवाहार्थं कथम् उपविष्टः अभवत् सः ।’’

रत्नावली उत्तरदानार्थं किमपि उचितं नामन्यत । सा निर्विकल्पभावेन सर्वं किमपि मौनेन अशृणोत् । भ्रातृजायाकेशरबाई - महोदयया प्रसङ्गः विवृतः - ‘‘यद् भाग्ये तद् अभवत् । एतादृशः पण्डितः न दृष्टः न च श्रुतः । शोभायात्रा एतस्मिन् महेवाग्रामे कदापि नागता न च आगमिष्यति ।’’

गङ्गेश्वरः तस्य दिनस्य संस्मरणे निमग्नः जातः यस्मिन् दिने रत्नावलीम् आहूय सः अत्र आनीतः आसीत्। अत्र तस्य पितृव्यः स्वपत्नीं शान्तिम् आहूय आनीयमानः आसीत् । तस्मिन् दिने मम अपि गृहं प्रति आगमनाय शीघ्रता आसीत् यत् तत्र आवुत्तः न मिलितः, ततः मम मातुः रुग्णतायाः निमित्तं मया कृतम् आसीत् । दीना रत्नावली स्वस्याः ‘काकी’ इत्यस्याः विषये कियन्तं स्नेहं करोति ! पतिः गृहे न आसीत् तथापि सा तत्क्षणे अत्र आगता आसीत् । मम किं ज्ञानम् यत् मम इच्छा एतादृशं घोरम् अनर्थं करिष्यति ।’’

गङ्गेश्वरः विचारमग्नः जातः अस्ति इति दृष्टवा तस्य माता अपृच्छत्- ‘‘गङ्ेश्वर! कस्मिन् विचारे निमग्नः जातः असि ?’’ तेन उत्तरं दत्तम् - ‘‘किमपि नहि । एवमेव विचारमग्नः आसम् । रत्नावल्या एतादृशं किं गालिप्रदानं कृतं येन महाराजाः ज्ञानिनः जाताः । मातः, मया एवं मन्यते ते मानिनः ज्ञानिनः वा न जाताः, दाम्भिकाः ‘बाबा’ भविष्यन्ति । जनेभ्यः अन्धकारस्य भयं प्रदश्र्य तेषां वंचनं करिष्यन्ति ।’’

भ्रातृजस्य एतत् कथनं श्रुत्वा पाठकमहोदयाः क्रोधाविष्टाः जाताः कथितवन्तः च - ‘‘पुत्र ! एतादृशः सः नास्ति ।’’

गङ्गेश्वरः ज्ञातवान् यत् पितृव्यः तत्कथनम् अप्रशस्तम् अमन्यत इति विचारेण सः उक्तवान् - ‘‘सः कोऽपि संसारी मनुष्यः एव नासीत् । अरे, समाजस्य अपि कापि मर्यादा भवति । मनुष्येण तेषां निर्वहणं कर्तव्यमेव ।’’

केशरबाईमहोदयया निर्णयः श्रावितः- ‘‘भवन्तः किमपि कथयन्तु, किन्तु शृण्वन्तु सः तु गन्तुकामः एव आसीत् अतः सः निर्गतः । कुत्रापि सः आनन्देन जीवनं कुर्वाणः जातः स्यात्, अत्र तु वयं चिन्तया म्रियमाणाः अभवम् ।’’

गङ्गेश्वरेण पुनरपि क्रोधः प्रकटीकृतः- ‘‘मया अमन्यत, यत् अयम् अपि महाशयः भगवान् महावीरवत्, अथवा भगवान् बुद्धवत् कमपि धर्मं प्रचालयिष्यति ।’’

पाठकमहोदयैः स्वभ्रातृजः तर्जितः कृतः उक्तं च ‘‘अद्य भवान् बहुवाचालः भूयमानः वर्तते । स्वतन्त्रतायाः अर्थः एवं नास्ति यत् मस्तकोपरि आरोहणं करोतु । भवता किं ज्ञायते तस्य विषये ? तेन एतादृशं कृतं तथा सः किमपि कृत्वा अवश्यमेव प्रदर्शयिष्यति । पश्यतु भवान् ।’’

केशरबाईमहोदयया ज्ञातं यत् देवरमहाशयाः अप्रसन्नाः जाताः सन्ति । तेषां प्रसन्नतायाः कृते तया उक्तम् - ‘‘एतेषां जनानां कथने सुज्ञता एव न भवति । तथा गङ्गेश्वरस्य क्रोधः वास्तविकोऽपि अस्ति । तमपि भगिन्याः चिन्ता सन्तापयति ।’’

पाठकमहोदयाः भ्रातृजायया सह विवादं न कुर्वन्ति स्म । तस्याः कथनं श्रुत्वा ते शान्ताः जाताः । पाठकमहोदयाः उत्थाय ग्रामे चतुश्शालाम् उपवेशनार्थं निर्गताः । गङ्गेश्वरस्य माता कार्यनिमग्ना अभवत् । शान्तिः पाकशालां प्रविष्टा ।

गङ्गेश्वरेण पुनः कथनं प्रचालितम् - ‘‘रत्ने, पितृव्यमहोदयाः भवत्याः कबीरपक्षीयं कथनं प्रशस्तं न मन्यन्ते स्म । ते विचारं कुर्वन्ति स्म यत् तुलसीमहोदयेन सह भवत्याः विवाहान्ते सुधारणा भवेत् ।’’

तुलसीसदृशः विद्वान् एव कथनं भ्रातुः मुखात् श्रवणान्ते रत्नावली उक्तवती - ‘‘भ्रातः अनेन प्रकारेण कस्याः उपरि कोऽपि विचारान् प्रस्थापयितुं न शक्नोति । मया ज्ञायते यत् तेन सह मम वैचारिकः सङ्घर्षः चलति स्म, परन्तु मम विचारान् तस्य उपरि प्रस्थापनार्थं मया इच्छा नैव कृता । स एव इच्छति स्म यत् तस्य विचाराः मया कदापि न स्वीकृताः ।’’

गङ्गेश्वरेण भगिनी तर्जिता - ‘‘अधुना भवत्या समाधानं प्राप्तं स्यात् । साम्प्रतं भवत्या स्वविवचाराः स्वाधीने सम्पद्यन्ताम् समाधानेन । स्वविचाराः एव तस्मै प्रियाः भवन्ति स्म भविष्यन्ति अपि ।’’

उत्तरदानार्थं रत्नावली अवदत् - ‘‘बन्धो ! नारी पुरुषस्य विचारधारायां लीना भवतु नार्याः च सत्यता अपि पुरुषेण अस्वीकृता कर्तव्या इत्येव अयं न्यायः भवतः पुरुषसमाजस्य वर्तते ।’’

गङ्गेश्वरः रत्नावल्याः कथनस्य मननं समारब्धवान् । तदा सः मातुः सम्बोधनं श्रुतवान् - ‘‘गङ्गेश्वर ! एनं संलापं त्यक्त्वा भोजनार्थं पितृव्यमहोदयाः समाह्वयनीयाः । अधुना एव प्रस्थानं कृतवन्तः सन्तः ते कदा गृहं प्राप्स्यन्ति ? ते यावत् भोजनं न करिष्यन्ति तावत् स्नुषा भोजनग्रहणेन विना उपवेक्ष्यति गृहे । अहमपि बुभुक्षापीडिता भूत्वा मरिष्ये । एतेषां जन्मनः यावत् जीवनस्य नित्याचारः अयं वार्धक्यपर्यन्तम् अपि नैव निर्गतः ।’’

गङ्गेश्वरः तान् आआनेतुं प्रस्थितवान् । सर्वेषामपि विचारपूर्वकं मनसि स्वविषयवासनायाः उत्सुकताविषये पश्चात्ताप: प्राचलत् । शान्तिः अमन्यत - ‘‘एतस्मिन् विषये तस्य अयमेव अपराधः यत् पितृव्यमहोदयाः तां गृहीत्वा अत्र प्रत्यागन्तुकामाः आसन् । हन्त, अयं संयोगः नाभविष्यत् ।’’

केशरबाई महोदयायाः मनः तस्मात् दिनात् केषुचित् अन्वेषणयोग्यस्थलेषु गुहायां वा गवेषणं कृत्वा प्रत्यागमनं भवति स्म इति सा एव जानाति - ‘‘रममाणः योगी, प्रवहमाणं जलं’’ चेति लोकोक्तिं संस्मरन्ती सा विचारं करोति स्म ‘‘सः कुत्र अन्वेषणीयः शक्यः भवेत् ?’’

एकदा मेलनं कृत्वा तुलसीमहोदयं प्रबोधयितुं सा इच्छति स्म । ततः पुनः विचारं करोति स्म सा - ‘‘प्रबोधनेन अपि को लाभः ? सः प्रत्यागन्तुं नैव सिद्धः भवति, मनसः भ्रमणं चलति तथा यथेच्छं चिन्तनं भवतु ।’’

पं. दीनबन्धुमहोदयाः गभीरतया विचारमग्नाः स्थिताः आसन् - ‘‘युवावस्थायाः उत्साहः समाजस्य मर्यादानां भङ्गमपि अनुतिष्ठति, पुनश्च कदाचित् तासां पुनर्गठनमपि कुर्वन् तिष्ठति । मर्यादानाम् अङ्कुरः वासनायाः तीव्रत्वं रोद्धुं प्रयत्नपरः भवति । परन्तु निर्झरस्य तीव्रप्रवाहवत् अचलपर्वतश्रेणीनां हृदयं विदीर्य सः प्रवहन् प्रस्थितः भवति।’’

‘‘का एषा घटिता घटना जाता ? वासना, मर्यादा चेति एतयोः युद्धं समारब्धम् । वासना मर्यादाभङ्गं कर्तुम् इच्छति । एतदर्थं न्यायः नीतिः चेति एतयोः विचारं पुरस्कृत्य एषा प्रतिबन्धान् स्थापितवती । ततः वासना वैराग्यरूपं धृतवती । मुक्तिगवेषणार्थं सः प्रस्थितः । अधुना मर्यादादिभिः असहाया भूत्वा सृष्ट्यर्थं परिवर्तते ।’’

‘‘सः अपि कथम् अस्ति ? न ज्ञायते यत् किं किं चिन्तनं ते कुर्वन्तः तिष्ठन्ति? एतस्मिन् सम्पूर्णे यः कोऽपि दोषः अस्ति सः तेषां स्वस्य एव वर्तते इति ज्ञातव्यम् । रत्नावली प्रारम्भकालतः विचित्रा कन्या विद्यते । कबीरेण तस्याः मनः अधिकं प्रभावितं कृतम् आसीत् यत् चिन्तनधारा सनातनचिन्तनधारायां परिवर्तिता भूत्वा स्थिता भवेत्। मया न ज्ञातम् आसीत् यत् वैचारिक - मेलन - मिश्रणं न भवेत् द्वन्द्वयुद्धं च प्रारभेत । रत्नावली स्वविचारेषु एतादृशी सुदृढा स्यात् इति अल्पापि पूर्वबुद्धिः अभविष्यत् तदा ते तस्याः विवाहं तुलसीमहोदयेन सह न अकरिष्यन्। परन्तु भविष्यम् इदमेव आसीत् । एतादृशी कन्या मया कस्यापि न दृष्टा । कथमेषा सुबोधं दुर्बोधं च चिन्तयति इति न ज्ञायते । अयं कबीरः कस्मिन्नपि दिने देशं विपरिवर्तितं करिष्यति । न जाने श्वशुरः कथमस्ति ? हिन्दु - मुस्लिमाः तस्मै गालीः (अपशब्दान्) ददति । परन्तु जातिद्वयस्यापि जनाः तं मन्यन्ते ।’’

एवं विवरण - आवरण - विचारमग्नतायां गोपबन्धुमहाभागाः गङ्गेश्वरम् अनुगच्छन्तः गृहमागताः ।

- - - - - - - - -