रत्नावली- 1 - संस्कृतानुवादकः पं.गुलामदस्तगीरः

  • 8.2k
  • 1
  • 2.4k

रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी सम्पादकीयम् ऐतिहासिकग्रन्थानां नायकनायिकानां चरित्रचित्रणविषये लेखनस्य परम्परा भारतीयसाहित्यक्षेत्रे समादृता अस्ति। आदिकाव्यस्य रामायणस्य उपजीविकाव्यमस्ति गोस्वामितुलसीदासेन रचितम् ‘रामचरितमानसम्’ इति। रामचरितमानसस्य रचनाकारस्य गोस्वामितुलसीदासस्य जन्मभूमिः एकः लघुग्रामः। तत्रत्यां सामाजिकीं स्थितिं, ग्राम्यजीवनस्य सूक्ष्मता, भक्तसमाजस्यमकुटमणेः प्रियतमायाः रत्नावल्याः मनोदशाम् अनुभूय एतम् उपन्यासं रचयित्वा स्वकीयां लेखनीं चालयन् डा. रामगोपाल ‘भावुक’ महोदयः तात्कालिकसमाजस्य चित्रांकने सफलः जातः। ‘रत्नावली’ उपान्यासस्य उद्देशः अस्ति सांसारिकजीवनात् वैराग्यं प्राप्तवतः रामभक्तस्य गोस्वामितुलसीदासवर्यस्य पत्न्याः चरित्र-चित्रणम्। अस्मिन् संसारे त्रिविधं दुःखं वर्तते - आधिदैविकम्, आधिभौतिकम्, आध्यात्मिकम् च। एतेषु दुःखेषु एव संघर्षं कुर्वन्तः केचन महत् कार्यं सम्पादयन्ति तेषां च प्रत्यक्षं