Ratnavali sanskritanuvad pan gulam dastageer book and story is written by रामगोपाल तिवारी in Hindi . This story is getting good reader response on Matrubharti app and web since it is published free to read for all readers online. Ratnavali sanskritanuvad pan gulam dastageer is also popular in Classic Stories in Hindi and it is receiving from online readers very fast. Signup now to get access to this story.
रत्नावली-संस्कृतानुवादकः पं.गुलामदस्तगीरः - Novels
by रामगोपाल तिवारी
in
Hindi Classic Stories
ऐतिहासिकग्रन्थानां नायकनायिकानां चरित्रचित्रणविषये लेखनस्य परम्परा भारतीयसाहित्यक्षेत्रे समादृता अस्ति। आदिकाव्यस्य रामायणस्य उपजीविकाव्यमस्ति गोस्वामितुलसीदासेन रचितम् ‘रामचरितमानसम्’ इति। रामचरितमानसस्य रचनाकारस्य गोस्वामितुलसीदासस्य जन्मभूमिः एकः लघुग्रामः। तत्रत्यां सामाजिकीं स्थितिं, ग्राम्यजीवनस्य सूक्ष्मता, भक्तसमाजस्यमकुटमणेः प्रियतमायाः रत्नावल्याः मनोदशाम् अनुभूय एतम् उपन्यासं रचयित्वा स्वकीयां लेखनीं चालयन् डा. रामगोपाल ‘भावुक’ महोदयः तात्कालिकसमाजस्य चित्रांकने सफलः जातः।
रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी सम्पादकीयम् ...Read More ऐतिहासिकग्रन्थानां नायकनायिकानां चरित्रचित्रणविषये लेखनस्य परम्परा भारतीयसाहित्यक्षेत्रे समादृता अस्ति। आदिकाव्यस्य रामायणस्य उपजीविकाव्यमस्ति गोस्वामितुलसीदासेन रचितम् ‘रामचरितमानसम्’ इति। रामचरितमानसस्य रचनाकारस्य गोस्वामितुलसीदासस्य जन्मभूमिः एकः लघुग्रामः। तत्रत्यां सामाजिकीं स्थितिं, ग्राम्यजीवनस्य सूक्ष्मता, भक्तसमाजस्यमकुटमणेः प्रियतमायाः रत्नावल्याः मनोदशाम् अनुभूय एतम् उपन्यासं रचयित्वा स्वकीयां लेखनीं चालयन् डा. रामगोपाल ‘भावुक’ महोदयः तात्कालिकसमाजस्य चित्रांकने सफलः जातः। ‘रत्नावली’ उपान्यासस्य उद्देशः अस्ति सांसारिकजीवनात् वैराग्यं प्राप्तवतः रामभक्तस्य गोस्वामितुलसीदासवर्यस्य पत्न्याः चरित्र-चित्रणम्। अस्मिन् संसारे त्रिविधं दुःखं वर्तते - आधिदैविकम्, आधिभौतिकम्, आध्यात्मिकम् च। एतेषु दुःखेषु एव संघर्षं कुर्वन्तः केचन महत् कार्यं सम्पादयन्ति तेषां च प्रत्यक्षं
रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 2 अद्यावधिः कति दिवसाः व्यतीताः स्वामिचरणानां निर्गमनान्ते ? तैः मम विषये तु नहि, मुन्ना इति स्वात्मजस्य ...Read Moreचिन्ता न कृता । एतादृशः निर्मोही कोऽपि भवति वा ? ते चिन्तयिष्यन्ति अहं तेषां सानिध्ये नास्मि, ततः किं चिन्तनम् ? मुन्ना इति आत्मजः तु अस्ति एव। नारी एका एतादृशी लता अस्ति या वृक्षाधारेण एव आरोहणं करोति, अन्यथा पृथिव्याः उपरि एव लुण्ठनं करोति । वयं नार्यः अनेन प्रकारेण निर्बलाः भूत्वा स्थातुं न शक्नुमः। नारीणां बाल्यकाले, मातृपित्रोः आलम्बः, युवावस्थायां पत्युः आश्रयः, वृद्धावस्थायां च पुत्रस्य आधारः, अनेनैव
रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 3 जामाता वैराग्यं स्वीकृतवान् इति यदा दीनबन्धुपाठकमहोदयैः श्रुतं तदाप्रभृति ते अपि मनसा पूर्णाः विरागिणः जाताः आसन् । गृहस्थावस्थायां ...Read Moreमोहः तेषां नावशिष्टः आसीत् । तेषां पत्नी बहुपूर्वम् एव स्वर्गस्था जाता आसीत् । भ्रातृजाया, भ्रातुः पुत्रः गङ्गेश्वरः, गङ्गेश्वरस्य पत्नी शान्तिः, रत्नावली, तस्याः पुत्रः तारापतिः इत्यादीनां गृहसदस्यानां भारः न्यूनः नैव आसीत् । गृहचालनस्य दृष्टिमनुसृत्य मनसा विरागिणः भूत्वा अपि पाण्डित्य - वृत्ति - त्यागं कर्तुं न सिद्धाः जाताः आसन् । गृहं त्यक्त्वा संन्यासग्रहणार्थंम् अस्याः विरोधः भवति स्म। सम्पूर्णे दिवसे एतस्याः विद्रोहिण्याः कन्यायाः विचारधाराम् आश्रित्य तर्काः
रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी पण्डित - सीताराम चतुर्वेदी धोतीधारकाः पण्डिताः इति नाम्ना प्रसिद्धाः आसन् । जनाः ‘धोतीवालेपण्डित’ इति नाम्ना एव तान् जानन्ति स्म । यतो ...Read Moreसर्वे पण्डिताः धोतीधारकाः आसन्, परन्तु एते धोती इत्यस्य अर्धभागं परिदधति अर्धभागेन च अङ्गम् आवृण्वन्ति स्म । एते पण्डितमहोदयाः अन्य - पण्डितानाम् अपेक्षया भिन्नां परिधानपद्धतिम् अवलम्बितवन्तः आसन् । भगवतः शङ्करस्य नाम्ना शिष्येभ्यः दक्षिणाग्रहणार्थं प्रस्थानं कुर्वन्ति स्म एते । समीपवर्ति - विंशति - क्रोश - क्षेत्रस्य - ग्रामेषु एतेषां शिष्याः निवसन्ति स्म । काछिजातीयानां पुरोहितरूपेण एते प्रसिद्धाः आसन् । कोऽपि काछिजातीयः स्वकार्यार्थम् एतान् विहाय अन्य -
रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 5 मनुष्यस्य सहनशक्तिः विचारजागरणेन अभिवृद्धा ...Read More। प्रत्येक - वेदनारम्भः असह्यः भवति । शनैः शनैः च सा वेदना सह्या भवति । वेदनाभिः सहनशक्तिः अभिवृद्धा भवति, एवमेव अनेन प्रकारेण मनुष्यस्य अनन्त - आत्मविश्वासः अपि अभिवर्धमानः तिष्ठति । जीवनविषये आस्थाः गभीराः जायन्ते । इति चिन्तयन्तः पं. दीनबन्धु पाठक महोदयाः कतिपयदिनेषु निश्चिन्तः जाताः आसन् । शनैः शनैः चिन्तनेन असह्या पीडा सह्या जाता आसीत् । रत्नावली स्वपराभवे अपि हासस्य हास्यकरणस्य वा अध्ययनं कुर्वती अतिष्ठत् । तया ज्ञातम् आसीत् यत् अधुना तस्याः हासः एव समाजसम्मुखे विजयस्य कार्यं करिष्यति