रत्नावली-3-संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.8k
  • 1
  • 2k

रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 3 जामाता वैराग्यं स्वीकृतवान् इति यदा दीनबन्धुपाठकमहोदयैः श्रुतं तदाप्रभृति ते अपि मनसा पूर्णाः विरागिणः जाताः आसन् । गृहस्थावस्थायां च मोहः तेषां नावशिष्टः आसीत् । तेषां पत्नी बहुपूर्वम् एव स्वर्गस्था जाता आसीत् । भ्रातृजाया, भ्रातुः पुत्रः गङ्गेश्वरः, गङ्गेश्वरस्य पत्नी शान्तिः, रत्नावली, तस्याः पुत्रः तारापतिः इत्यादीनां गृहसदस्यानां भारः न्यूनः नैव आसीत् । गृहचालनस्य दृष्टिमनुसृत्य मनसा विरागिणः भूत्वा अपि पाण्डित्य - वृत्ति - त्यागं कर्तुं न सिद्धाः जाताः आसन् । गृहं त्यक्त्वा संन्यासग्रहणार्थंम् अस्याः विरोधः भवति स्म। सम्पूर्णे दिवसे एतस्याः विद्रोहिण्याः कन्यायाः विचारधाराम् आश्रित्य तर्काः