रत्नावली-7 संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई

  • 7.3k
  • 1
  • 2.2k

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 7 नौका राजपुर - घट्टे प्राप्ता । घट्टे केचित् बालकाः स्थिताः आसन् । रत्नामातरं दृष्ट्वा ‘‘माता आगता, माता आगता’’ इति उद्घोषणं ते उच्चैः अकुर्वन् । रत्नामाता नौकातः अवातरत् । एकेन बालकेन तारापतिः गृहीतः। गणपतिः मातुः वस्तूनि गृहीतवान् । गृहं यमुनातीरे एव आसीत् । घट्टतः उच्चस्तरे गृहं रचितम् आसीत् । येन यमुनायाः तीव्रमहापूरवेगात् संरक्षितं तद् भवेत् । सर्वे गृहम् आगताः । शास्त्रिकालात् एव गृहकार्ये एका महिला सहायम् करोति स्म । तस्याः नाम आसीत् हरकोमहोदया । हरकोमहोदयातः सन्तानलाभः नाभवत् । अतः तस्याः पतिः जनकू इत्यनेन हरकोमहोदयायाः