रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.3k
  • 1
  • 2.2k

रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 13 रत्नावली अचिन्तयत् - भूतकालस्य घटनाः भविष्यकालस्य कृते प्रेरणारूपेण कार्यं कुर्वन्ति। यदा वयं भविष्यकालस्य हेतवे योजनानिर्माणं कुर्वाणाः भवामः तदा भूतकालस्य अनुभवकारणात् विखण्डनभयः अपि न भवति। मया ननु तेषां पथान् पल्लवितान् कर्तुं व्रतं ग्रहीतम् । साम्प्रतं तेषां दर्शनार्थं मया गन्तव्यम् एव । पश्यामि अहं, ते मम विषये कम् उपायं निर्णेष्यन्ति । हे राम ! भवान् तेषां मनसि उपविशतु । हे सीतामातः ! भवती तेषां मनः परिवर्तयतु । मह्यं शरणं ते ददतु इति एतदेव पर्याप्तम् । अहं कदापि तेषां पथि रोधनात्मकं