रत्नावली-15 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 7.1k
  • 1
  • 1.9k

रत्नावली-15 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 15 यदा यदा सोमवती - अवसरः भवति तदा तदा रत्नावली स्थूलशरीरेण ननु राजापुरे भूत्वा तिष्ठति स्म । परन्तु सूक्ष्मशरीरेण सा चित्रकूट - दर्शने रममाणा भवति स्म । राजापुरे स्थित्वा अपि तस्याः नयनयोः पुरस्तात् । चित्रकूट - दृश्यानि दूरे न तिष्ठन्ति स्म । पाठन - पठनक्रमः स्थगितः न जातः आसीत् । छात्राः पठनार्थम् आगच्छन्ति स्म । तेन दान - दक्षिणा - प्राप्तिः चलति स्म । येन जीवननिर्वहणं भवति स्म । गणपतिः इत्यस्य अध्ययनं पर्याप्तं जातम् आसीत् । सः ग्रामस्य प्रतिष्ठिता