रत्नावली-17 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.8k
  • 2
  • 2k

रत्नावली-17 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 17 कदा कदा जीवने आनन्दस्य अनन्त - सम्भावनाः दृश्यमानाः भवन्ति । तदा पूर्वतनीयाः सर्वे आघाताः परिपूर्णतां गच्छन्ति । युगानुयुगं यावत् जीवनाय इच्छा भवति । यद् जीवनम् अधिक्षिप्तं भवति स्म तदेव प्रशंसनीयं भवति । शिरसि रामचरितमानसस्य प्रतिकृतिं संस्थाप्य सर्वैः अपि प्रवासिभिः सह सा चलन्ती गच्छति स्म तथैव च एनेन प्रकारेण किं किं चिन्तनं कुर्वती अपि पदक्रमणं करोति स्म इति न ज्ञायते । रामचरितमानसस्य प्रतिलिपिः सर्वेऽपि राजापुरवासिनः यथाक्रमं शिरसि धारयित्वा मार्ग - क्रमणं कुर्वाणाः आसन् । सर्वेऽपि यावन्मार्गं तावत् एतस्यामेव प्रतीक्षायाम्