रत्नावली-18 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 7k
  • 3
  • 1.9k

रत्नावली-18 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 18 रामचरितमानसस्य कथाः जनानां चर्चा विषयाः जाताः आसन् । परिसरीयाः जनाः चर्चासु सहभागग्रहणार्थं रत्नावल्याः समीपं समागच्छन् । प्रातः कालतः सायंकालपर्यन्तं यावत् आगच्छतां निर्गच्छतां च जनानां अखण्डावलिः एव चलति स्म । प्रातः काले सायंकाले च मानसस्य पाठः प्राचलत् । मध्यान्तरे मानसस्य प्रसंगानां चर्चा चलति स्म इत्येव नहि जनाः भोजन - पानादिसमये अपि चर्चां कुर्वन्तः अतिष्ठन् । गृहे गृहे अपि अयमेव चर्चाविषयः जातः आसीत् । गृहे स्थिताः जनाः यदा संलापं कुर्वन्ति स्म तदा अपि एषा एव चर्चा, पुनश्च कोऽपि अतिथिः आगताः भवेत्