रत्नावली-5-संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.2k
  • 1
  • 2k

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 5 मनुष्यस्य सहनशक्तिः विचारजागरणेन अभिवृद्धा भवति । प्रत्येक - वेदनारम्भः असह्यः भवति । शनैः शनैः च सा वेदना सह्या भवति । वेदनाभिः सहनशक्तिः अभिवृद्धा भवति, एवमेव अनेन प्रकारेण मनुष्यस्य अनन्त - आत्मविश्वासः अपि अभिवर्धमानः तिष्ठति । जीवनविषये आस्थाः गभीराः जायन्ते । इति चिन्तयन्तः पं. दीनबन्धु पाठक महोदयाः कतिपयदिनेषु निश्चिन्तः जाताः आसन् । शनैः शनैः चिन्तनेन असह्या पीडा सह्या जाता आसीत् । रत्नावली स्वपराभवे अपि हासस्य हास्यकरणस्य वा अध्ययनं कुर्वती अतिष्ठत् । तया ज्ञातम् आसीत् यत् अधुना तस्याः हासः एव समाजसम्मुखे विजयस्य कार्यं करिष्यति