ratnavali -8 sanskritanuvadak pan.gulam dastageer books and stories free download online pdf in Hindi

रत्नावली-8 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 8

प्रतिदिनानुसारं रत्नावली अद्यापि समयेन एव उत्थिता । तया स्वदिनचर्या गोस्वामिवदेव अनुचालिता अवर्तत । स्नान - ध्यानादिषु कापि विघ्नबाधा न भवति स्म । वाल्मीकिरामायणपाठः, रामनाम - माला इति एतदेव दैनिक - जीवन - क्रमे समागतम् अविद्यत । यदा कार्यनिवृत्ता भवति स्म तदा तारापतिः उत्थितः भवति स्म । अतः तस्य निर्वहणेन समयः व्यतीतः अवर्तत । धनिया आगता आसीत् । पात्रं गृहीत्वा जलम् आनेतुं सा नदीं गता । गंगेश्वरः प्रतिदिनं प्रस्थानार्थं वदति स्म । परन्तु भगिनी मनसा दुःखिता भवति इति ज्ञात्वा सः पुनः तिष्ठति स्म । तेन गतदिवसे प्रजागरः दत्तः आसीत् यत् श्वः विहस्य निर्गमनाय स्वीकृतिः देया इति । गंगेश्वरः निर्गमनार्थं निवृत्तः भूत्वा समागतः । तेन तारापतिः लालायितः ततश्च भगिनी द्वारा अनुज्ञां ग्रहणार्थं समागच्छत् । रत्नावली ज्ञातवती, उक्तवती च - ‘‘अधुना भोजनं सिद्धं जातम् । भोजनं कृत्वा प्रस्थानं करोतु ।’’

गंगेश्वरः अपृच्छत् - ‘‘पितृचरणेभ्यः किं निवेदनं विद्यते ?’’

रत्नावली विचारं कृत्वा अभणत् - ‘‘पितृपादेभ्यः निवेदनीयं यत् सर्वा व्यवस्था सम्पन्ना जाता । अत्रत्याः जनाः मम महतीं चिन्तां कुर्वन्ति । अतः कापि चिन्ता न करणीया ।’’

गंगेश्वरः भगिन्याः मनोबलं प्रवर्धमानं कर्तुकामः ।

अतः सः अभणत् - ‘‘भगिनि ! गोस्वामिवर्यः तथा पुरुषरत्नमेव, परन्तु न ज्ञायते यत् एतत् कथम् अभवत्?’’

एतत् श्रुत्वा रत्नावली स्वमनोगतं व्यक्तवती - ‘‘बन्धो ! तेन रामस्य आधारः धृतः अस्ति, तथा अहमपि रामाधार भूता जाता अस्मि । भवान् चिन्तां न अनुतिष्ठतु ।’’

भगिनी द्वारा आश्वस्तः भूत्वा गंगेश्वरः प्रस्थितः । हरकोमहोदया तस्याः पूजाकार्यार्थं पुष्पादीनि आनीय रत्नावल्याः सहाय्यं करोति स्म । गोस्वामिवर्याणाम् उपस्थित्याम् अपि रत्नामातरं ‘भौजी’ अर्थात् ‘भ्रातृजाया’ इति तां हरकोमहोदया सम्बोधयति स्म । उक्तवती च - ‘‘भ्रातृजाये, अद्य तु भवती अतिशीघ्रं पूजां कृत्वा निवृत्ता जाता अस्ति।’’

रत्नावली अब्रवीत्- ‘‘अधुना पूजां विना अन्यत् किं कार्यं मम कृते अवशिष्टं विद्यते? तारापतिः नु सर्वग्रामस्य तारकः जातः अस्ति । तस्य कृते भवती वर्तते, धनिया च विद्यते ।’’

धनिया गृहस्य लिंपन- प्रोंक्षणाद्यर्थं कर्मकरीविषये अकथयत्- ‘‘भगिनि, अहं एकया कर्मकर्या सह वार्तां कृत्वा आगता अस्मि ।’’

रत्नावली अवदत् - ‘‘गृहे धनं नास्ति कर्मकर्यै दानार्थम् । तथा भवेत्, अतः श्वः आरभ्य अहमेव गृहस्य विकृतिं गतं भागं यथापूर्वं सुकृतितां नेतुं प्रारभे ।’’

‘‘हन्त राम, कः किं कथयिष्यति ? महाशास्त्रिवर्याणां धर्मपत्नी मृत्तिका - अवकरादिकार्यं करोति’’ इति धनिया अवदत् ।

तत् श्रुत्वा रत्नावली अभ्यधावत् - ‘‘अरे, दास्याः एतादृशं सन्तापं श्रुत्वा ते प्रधावन्तः अत्र आगमिष्यन्ति । पूर्वं गृहं तान् अनुसृत्य प्राचलत्, अधुना गृहं मया चालनीयम् । स्वकार्यकरणे वयं संकोचं न कुर्याम ।’’

धनिया हरको चेति द्वाभ्यां प्रोक्तम् - ‘‘भवती समुचितमेव कथयति । अस्माकम् अधीने कस्मै अपि किमपि दानीयं न भवेत् तदा विना दानेन किमपि कार्यं कारणीयमिति पापमेव अस्ति।’’

रत्नया उत्तरं दत्तम् - ‘‘मया तु एवमेव कथ्यते ।’’

हरको उक्तवती- ‘‘मया मृतिका जलमिश्रिता क्रियते । धनिया अपि सहाय्यं करिष्यति ।’’

धनिया महोदयया हरकोमहोदयायाः कथनस्य समर्थनं कृतम् - ‘‘आम्, भगिनि, हरकोमहोदया साधु कथयति।’’

तत् श्रुत्वा रत्नावली तूष्णीं गता । अन्यस्मिन् दिने गृहोद्धारकार्यं समारब्धम् ।

त्रि-चतुर्णां दिनानां कठिनपरिश्रमानन्तरं गृहस्य लिम्पनप्रोक्षणादिसर्वं कार्यं समापितम् । परन्तु एका काष्ठनिर्मित - पेटिका तथैव स्थिता अवर्तत । रत्नावली अत्र समागता तदाप्रभृति तां पेटिकां सा नास्पृशत् । परन्तु तस्याः पेटिकायाः उद्घाटनार्थं तस्याः इच्छा जाता । हरकोमहोदया तस्याः उद्धाटनार्थं बहुवारं कथितवती । परन्तु रत्नावली एतत्कथयित्वा तत् परिहरति स्म यत् कदाचित् ते प्रत्यागमिष्यन्ति, मया तेषां सा पेटिका उद्घाटिता, ततः ते चिन्तयिष्यन्ति, एतावती अधीरा जाता इति । परन्तु अधुना विचारं करोमि - ‘‘तेषां प्रतीक्षा मया एतावद्दिनेषु कृता। अत्र यदा अहम् आगता तदा इदं निश्चितम् अभवत् यत् ते अधुना नागमिष्यन्ति ।

यासां पतयः स्वपत्नीः त्यक्त्वा निर्गताः इति तासां नारीणां पथदर्शिनी अहं भवितुम् इच्छामि । मया एतादृशं कार्यं नैव करणीयं येन आगम्यमानाः परम्पराः मां प्रति अङ्गुलिनिर्देशनेन दोषदानं करिष्यन्ति । प्रगल्भतया विचारचिन्तनान्ते पेटिका-उद्घाटनस्य निश्चयः कृतः जातः । पत्यौ विद्यमाने अपि एतस्या पेटिकायां किम् अस्ति इति अवगमनार्थम् इच्छा न जाता आसीत् । तैः अपि तालकेन एषा पेटिका प्रबद्धा अपि नैव कृता अविद्यत । तेषां निर्गमनान्ते हरको धन्नोचेति एतयोः निभालेन एषा पतिता अवर्तत । एतत् चिन्तयन्ती सा स्थापिता आसीत् । एते कुत्रापि अगच्छन्, एतेषां वस्त्राणि एतस्यामेव भवन्ति स्म । हरकोमहोदयाम् उद्दिश्य रत्नावल्या सम्बोधनं कृतम् - ‘‘हरकोमहोदये, अत्र आगन्तव्यम् । एतस्यां पेटिकायां वर्तमानानि वस्त्राणि आतपे स्थापनीयानि ।’’ हरको आगता, तालकादिहीना सा पेटिका द्वाभ्यां हस्तबलेन प्राङ्गणे आनीता । कन्यायाः आस्तरणं प्रसारितम् । पेटिका उद्घाटिता। हरको द्रष्टुं स्थिता । घनिया अपि आगता ।

रत्नावल्या स्वकार्यं समारब्धम् । अतिविलम्बं यावत् विमोचितां पेटिकां पश्यन्ती सा अतिष्ठत् । हरको अमन्यत् - ‘‘एषा किमपि विचारं कुर्वती स्थिता अस्ति ।’’ सूचितकरणस्य आवश्यकता अस्ति इति नान्वमन्यत ।

रत्नावल्याः विचारप्रवाहः प्रवाहितः अभवत् । ‘‘अधुना पेटिकायां किं मुक्ताफलमिति अन्वेष्टुम् इच्छामि । ते तु हस्तात् निःसृताः जाताः वर्तन्ते । तथा नु एतस्यां निश्चेतनपेटिकायाम् अन्विष्य आत्मानं भ्रमे एव पातयामि ।’’ एतत् चिन्तयित्वा पेटिकायां वस्त्राणि शीघ्रातिशीघ्रमेव उद्धृत्य कन्यायाः आस्तरणे प्रस्थापयति स्म ।

भूत - भविष्य - वर्तमानकालाः सहसा एव स्वस्य प्रश्नान् तथैव च उत्तराणि गृहीत्वा समुपस्थिताः । जनाः पेटिकासु भूतकालस्य स्मृतीः संग्रह्य भविष्यकालाय दर्शनार्थं सुव्यवस्थिततमास्थापयन्ति । वर्तमानकालः समये समये तासां स्मृतीनां मूल्याङ्कनं कुर्वन् चलति । अनुपयोगिवस्तूनि विशिष्टसीमातः निष्कास्य सामान्ये समाहितानि कुर्वाणः सः चलति।

सर्वेषाम् उपरि ‘‘फेटा’’ इति शिरोवेष्टनं स्थापितम् आसीत् । तस्याधः ‘बण्डी’ इति कंचुकविशेषः, एकः शुभ्रः देदीप्यमान - श्लक्ष्णमान धोति इति वस्त्रविशेषः, च आस्ताम् । विवाहदिने एतानि एव तैः परिधारितानि आसन् । कियत् सुन्दरं भाति स्म । निश्चितं, यथा देवता एव स्यात् । तदुद्धृत्य तया कन्यायाः आस्तरणे स्वतन्त्रं स्थापितम्। पुनश्च एकः वेषः पीतवस्त्राणाम् आसीत् । एनमेव परिधार्य वसन्तसमये एतैः कामदेवः अपि लज्जितः क्रियते स्म । एनमेव परिधार्य अस्माकं महेवा इति ग्रामे सम्पन्नायाः कथायाः वाचनम् एतैः अक्रियत । एतैः वाल्मीकिरामायणस्य सुसम्पन्नतां नीताः कथाः अद्यापि विस्मरणतां नेतुं जनाः न शक्नुवन्ति । अद्य पर्यन्तम् अपि अनेन प्रकारेण कथाकथनं केनापि नैव कृतम् । यदा जनाः प्रशंसां कुर्वन्ति तदा मया मन्यते यत् जनाः मम भाग्येन सह ईष्र्यां कुर्वाणाः भवन्ति । अन्यथा एतावत् किंचित् कथनेन कोऽपि गृहं त्यक्त्वा निर्गच्छति ? एनं वेषम् उद्धृत्य अस्मिन् एव अस्तरणे भिन्नरीत्या समलङ्कारितवती । कानिचन अन्यवसनानि अपि उद्धृत्यस्थापितानि । तले कानिचन् कर्गजपत्राणि पतितानि अवर्तन्त । तानि सर्वाणि व्यवस्थितानि न्यस्तानि । एका रक्तवर्णिता पेशिका आसीत्, सा उद्धृता तया । काश्चित् सुवर्णमुद्राः अभवन् । पुनरेका पेशिका तस्याः दृष्टिपथमागता । तस्यां देशीय - औषधानि आसन् । तानि सुरक्षिततया स्थापितानि । तारापतिः तानि वस्तूनि उद्धर्तुम् आस्फालयितुं च धावन् निवारयितुं प्रयतमाने आस्ताम् । आतपनिर्गमनात्पूर्वं सर्वाणि वस्तूनि पूर्ववदेव यथा स्थितिः तेषां आसीत् तथा पेटिकायां स्थापितानि । पेटिका च यथास्थाने स्थानापन्ना कृता ।

अधुना तु केवलं गोस्वामिवर्याणां पुस्तकानि धूलिहीनानि करणीयानि इत्येव कार्यम् अवशिष्टम् आसीत् । सा रत्ना सर्वाणि पुस्तकानि व्यत्यसितुकामाजाता आसीत् । एतेषु तेषां कोऽपि सन्देशः आवृतः स्यात् कदाचित् । पुस्तकविषये ज्ञानं प्राप्तुकामं तस्याः मनः । एतानि तेषां कोऽपि सन्देशः आवृतः स्यात् कदाचित् । पुस्तकविषये ज्ञानं प्राप्तुकामं तस्याः मनः । एतानि पुस्तकानि पठन्ती अहं स्वसमययापनं करिष्ये । एवं विचारं कुर्वत्यां चिन्तयन्त्यां च तस्यां तद्रात्रिः कदा सुप्ता जाता इति तस्याः ध्याने मनसि च नागतम् । पूर्णं दिनं यावत् श्रान्तिः जाता आसीत् । प्रातः जागरणे अपि विलम्बः अभवत् । धनियया सम्बोधनं कृतम् - ‘‘भगिनि, अद्य किं जातम् अस्ति ? कापि रुग्णता जाता वा ?

रत्नावली अभिहितवती - ‘‘नहि पितृव्ये, अद्य अहं निद्रामग्ना अभवम् । अद्य पूजा अपि अवशिष्टा वर्तते । हन्त राम, केनापि श्रूयते तदा तेन किं कथ्यते ? अधुना रत्ना पूजाम् अपि न करोति’’ इति । शीघ्रातिशीघ्रतया झटिति सा दैनिककार्ये मग्ना जाता ।

अद्य कानिचन पुस्तकानि व्यवस्थितस्थापनात् अवशिष्टानि आसन् । तारापतिः हरकोमहोदयायाः स्वाधीने कृतः, ततः अभणत्- ‘‘अद्य अहं पुस्तकानि सम्यक्तया मण्डयामि । तारापतिः हनुमतः दर्शनं कारयित्वा सः आनेयः।’’ तथा हरकोमहोदया तं गृहीत्वा निर्गता ।

तया पुस्तकानि व्यत्यसनं समारब्धम् । वेदाः उपनिषदः पुराणानि च एतादृशानि ग्रन्थाः आसन् । एवमेव ज्योतिषग्रन्थः अपि आसीत् । पुस्तकानि हस्तलिखितरूपेण आसन् । रामकथा सम्बन्धितानि अपि पुस्तकानि अविद्यन्त । रत्नावली प्राजल्पत्- ‘‘कुतः कुतः एतानि आनीय सर्वाणि संगृहीतानि इति ते एव जानते । अधुना एतानि सर्वाणि पुस्तकानि रिक्त - सुभागिनी सदृशानि पतितानि सन्ति । अधुना तथैव पतन्तु । कस्मिन् मुहूर्ते आनीतानि स्युः ? न ज्ञायते । अधुना तेषां सुखद - स्पर्शार्थं त्रस्ततया तिष्ठन्तु । अहं युष्माकं कृते, यूयं च मम कृते इत्येव ।

एकपुस्तकस्य व्यत्सनं कृत्वा दृष्टम् । चिह्नरूपेण सूत्रं तत्र स्थापितम् अस्मिन् । ततः तया ज्ञातं यत् तेषाम् एतस्य पुस्तकस्य अध्ययनम् अपूर्णं स्थितम् अवर्तत ।

एतस्य अर्थः भवेत् यत् एतेषाम् अत्रस्थं कार्यं पूर्णता न गतम् । मनुष्यः जीवने कियदपि अग्रेसरः भवतु, तत्पश्चात् पूर्वकार्यं किमपि अवशिष्टं भवति एव । अस्माभिः इदम् अर्थेन सह गृहणीयं, यदि इच्छा स्यात् तथा मानवस्य अन्यव्यवहारैः सह । कस्यचन कियदपि प्रत्यर्पितं भवेदेव । परन्तु यदा मानवः एकावरणस्य परिवर्तनं कृत्वा अन्यावरणं धारयति तदा सः तदावरणं सर्वेषां पूर्वऋणानाम् आवरणवत् अवतीर्य प्रक्षिप्तं कृत्वा आगच्छति । ततः तस्य पूर्वतनकृतेन सह कश्चन अर्थः न तिष्ठति । महामहत्सु साधुसत्सु एषा धारणा दृष्टा जाता विद्यते । मातुः पितुः च नामापि न गृह्यते । आवरणस्य परिवर्तनकर्तुः गुरोः एव महŸवस्य गुणगानम् आजीवनं चलति । पुस्तकानां व्यत्यसनेन ज्ञानम् अभवत् यत् बहुषु स्थानेन चिह्नाङ्कितं कृतं वर्तते । एतस्य अर्थः अयम् अभवत् यत् तैः रामकथाध्ययनम् अपि गभीरतया कृतं विद्यते । तैः रामकथायाः गभीर - तथ्यानि अवश्यम्भावेन स्पृष्टानि सन्ति, तदा एव तस्मिन् दिवसे मया रामविषये उद्गीर्णाः शब्दाः शब्दभेदिशराः जाताः सन्ति । यैः तेषां हृदयम् अविध्यत । अतः एव ते आवरणस्य अवतारणार्थम् अगतिकाः अभवन् ।

अहमपि कथम् अस्मि ? प्रलापान् एव कुर्वती तिष्ठामि । रामस्य नाम ननु एकं सत्यम् अस्ति, चिरं वर्तते । लज्जावशात् एव मया तथैव केवलं कथितम् आसीत् । मया अयं विचारः न कृतः आसीत् यत् भवन्तः रामबोला इति रामब्रुवाणाः । भवतां हृदये अधिकं प्रभावं दृष्ट्वा एव भवतां नामधेयं रामबोला अर्थात् रामब्रुवाणाः इति कृतं स्यात् । एकदा मया अपि अयं प्रश्नः भवतां पुरतः मण्डितः आसीत् यत् रामबोला अर्थात् रामब्रुवाणाः इति इदं भवतां नामधेयं कियत् सार्थकं वर्तते ? प्रश्नं श्रुत्वा भवन्तः कथ्यमानाः आसन् - ‘‘रत्ने, प्रसूतान्ते एव माता पिता च यस्य त्यागः कृतः स्यात् । आम्, यया मात्रा मम पालनं कृतम् आसीत् इति सा निश्चितम् अकथयत् यत् यदा मया शब्दायमानारम्भः कृतः तदा प्रथमः शब्दः ‘रामः’ इति उच्चारितः जातः । अनेन कारणेन मम माता पार्वती मां रामबोला (राम ब्रुवाणाः) इति सम्बोधयति स्म।

अधुना पर्यन्तं हरको तत्र आगत्य स्थिता आसीत् । रत्नावल्या विचारचिन्तने व्यवधानम् आनेतुं सा नैच्छत्। तथापि अभवत् - ‘‘भ्रातृजाये, पुस्तकानि दृष्ट्वा भवत्या मह्यं देयानि । अहं व्यवस्थितरीत्या स्थापयामि ।’’

एतत् - ‘‘भ्रातृजाये, पठन - लेखनादिं मामपि भवती पाठयतु ।’’

एतदाकर्ण्य रत्नावली अवदत् - ‘‘भवत्याः अयं विचारः सुष्ठुः अस्ति । परन्तु तर्जनानि सहनीयानि भवत्या । पुनः च भ्रातृजाया मां तर्जयति इति भवती कथयिष्यति ।’’

हरको गम्भीरतया आख्यात् । ‘‘भ्रातृजाये, तर्जनस्य पूर्णः अधिकारः गुरोः भवति । अरे, गुरुतः दीक्षा गृहीता अस्ति, भवती अपि गुरुः एव अस्ति ।’’

इदं श्रुत्वा सा अवदत् - ‘‘गणपतिमाता अकथयत् यत् गणपतिः पठनार्थम् आगमिष्यति । तेन सह भवती अपि अध्ययनार्थम् उपविशतु ।’’

हरकोमहोदया अभिहितवती - ‘‘भ्रातृजाये, यदि भवती अनुमतिं ददाति तदा एषा चर्चा मया अन्यत्र अपि चाल्यते । आवाभ्यां सह पठनार्थं चतुर्षाः बालकाः आगमिष्यन्ति इति कथं भवेत् ?’’

इदमाकर्ण्य रत्नावली उक्तवती - ‘‘साधु भवेत्, समयस्य सदुपयोगः भविष्यति ।’’

चिन्तयन्ती हरको आख्यात् - ‘‘अनेन या दक्षिणा प्राप्स्यति इति सा भिक्षा - याचना न भविष्यति। श्रमस्य कृते यत् प्राप्स्यति इति तेन अस्माकं कार्यमपि चलिष्यति ।’’

रत्नावल्या उत्तरितम् - ‘‘अहं एतद्विषये किमपि न चिन्तयामि । यस्य मनसि यथा श्रद्धा भवेत् तथा तावत् सः करिष्यति । एतद्विषये चिन्तनं न अस्माकं कार्यम् । पुनश्च यः आगन्तुकामः सः स्वयमेव आगमिष्यति । स्वबालकान् पाठयितुं कः न इच्छति ? दीन - दरिद्रमानवस्य मनसि एषा ऊर्मिः उद्भवति । एवं कथनोपकथनं प्राचलत्, तदा एव व्यवस्थितरीत्या पुस्तकानां मण्डनम् अपि पूर्णतां गतम् । सुदीर्घ - श्रमकरणान्ते गृहमपि व्यवस्थितं जातम् ।

रामाबन्धुः बहुवारंगमनागमनम् अकरोत् । कार्यमग्नां रत्नावलिं दृष्टवा, तारापतिं खेलयित्वा, च सः प्रत्यागच्छति स्म । एषः रामाबन्धुः गोस्वामिवर्याणां बालमित्रवरः । सुस्थित - आकर्षक - प्रांशु - देहबन्ध - युक्तः सः तरलः तरुणः, दीर्घश्मश्रुयुक्तं मुखं तस्य । सः हनुमतः भक्तः । रामाबन्धुः इति तं वदन्ति स्म जनाः । गोस्वामिवर्यतः दीक्षां ग्रहणान्ते तस्य कतिपयानि एव दिनानि व्यतीतानि आसन् । रत्नावलिविषये अपि तस्य गुरुभावः एव आसीत् । परन्तु रत्नावलिं भ्रातृजाया इति सम्बोधयति स्म । अद्य गतदीपावल्याः स्मरणं तस्य पुनः पुनः चलति स्म । यदा शास्त्रिवर्यैः रामकथायाः अयं प्रसङ्गः कृतः आसीत् तदा रावणवधस्य अन्ते श्रीरामस्य प्रत्यागमनकाले अयोध्यानगर्यां दीपावलिः समाराजिता आसीत् । तदाप्रभृति अद्य पर्यन्तं तत्पर्व अस्माभिः समाराजितं क्रियते । एतदेव चिन्तयन् रामाबन्धुः रत्नावलिगृहं समागतवान् । बहिः स्थित्वा एव तेन सम्बोधनं कृतम् - ‘‘भ्रातृजाये’’ इति ।

सम्बोधनं श्रुत्वा रत्नावली वलिके आगतवती । तां दृष्ट्वा रामाबन्धुः अपृच्छत् - ‘‘तारापतिः कुत्र अस्ति ?

रत्नावली उक्तवती - ‘‘सः अधुना अपि सुप्तः अस्ति । म्लेच्छः अस्ति, एतावन्तं दीर्घकालं यावत् स्वपिति।’’

रामाबन्धोः मुखात् निःसृतम् - ‘‘अद्यापि सः शिशुः अस्ति । भवत्याः कार्ये बाधां तु न जनयति ।’’

रत्नावली किमपि कथनार्थम् उक्तवती - ‘‘ तदस्तु, दीपावलिः अपि समागता ।’’

रामाबन्धुः अतीतकाले निमज्जन् तं प्रसंगम् अवधानेन अवदत् - ‘‘अरे, तदेव चिन्तयन् अहम् आगतवान्, गतवर्षे तु शास्त्रिवर्याणां अद्य मन्दिरे कथं मनमोहकं प्रवचनं जातम् आसीत् । सर्वेषां कथनं वर्तते यत् एतादृशः विद्वान् ग्रामे न जातः न भविष्यति । भ्रातृजाये, अस्य ग्रामस्य भाग्यम् उन्मीलितं जातम् ।’’

सहजतया एव रत्नावली आख्यात् - ‘‘भ्रातः ! जनवाणी कदापि न भविष्यति । परन्तु एतत्कथनार्थं भवतः इच्छा भवेत् न वा भवेत् यत् एषा एव जनवाणी अर्थात् यदा यदा जनाः गोस्वामिवर्याणां स्मरणं करिष्यन्ति तदा तदा ते माम् अपि धिक्करिष्यन्ति । कीदृशी पत्नी एषा ? एतावान् विद्वान् अनया मनसा न परिपालितः। मम सः धिक्कारः मदर्थं जन्मान्तरम् यावत् धिक्कारः भूत्वा स्थितः अस्ति ।’’

श्रुत्वा रामाबन्धुः सावधानो जातः, सः शास्त्रिवर्यवदेव रत्नावल्याः विद्वत्तायाः अपि वशी जातः आसीत् । अवदत् - ‘‘भ्रातृजाये, एतस्मिन् संसारे शास्त्रिवर्य - सदृशः अन्यः कोऽपि मया न दृष्टः, तथा च भवादृशी विदुषी अपि न दृष्टा । तस्मिन् दिवसे यमुना अमर्यादिततया तटानि भङ्क्त्वा वेगेन प्रवहति स्म अतः यमुनायाः परस्मिन् पारे गमनार्थम् ते मया बहु न्यषिध्यन्त । यदा तैः यमुनायाम् उत्प्लवनं कृतं तदा मम विचारः निर्णीतः जातः आसीत् यत् नद्याः अनेन वेगेन तेषां जीवनरक्षणं न सम्भवेत् । ते निश्चयेन संसारनदीं त्यक्त्वा पारतां गताः स्युः, अस्माभिः च ते एतस्मिन् घट्टे त्यक्ताः ।’’

एतत् श्रुत्वा तयोः दृढं मौनं सज्जातम् । तयोः द्वयोः अश्रूणि अविरलगत्या प्रावहन् । रामाबन्धुः भावुकतां गत्वा स्थितः ततश्च अवदत् - ‘‘भवती चिन्तां मा करोतु । भवत्याः कृते यानि वस्तूनि आवश्यकानि भवेयुः तदा मह्यं निःसङ्कोचतया भवती निवेदयतु । अयं दासः सेवायाम् उपस्थास्यति ।’’

रत्नावली उत्तरम् अदात् - ‘‘तथा नु मन्दिरे अद्य कस्यापि प्रवचनं भवता कारयितव्यम्।’’

तदाकर्ण्य रामाबन्धुः अवदत् - ‘‘मया अपि एतदेव चिन्त्यते स्म । पाठकताताः गताः सन्ति ततः ते अद्यापि न प्रत्यागताः । गङ्गेश्वरेण सम्मतिः न दत्ता । अहं वक्तुम् असमर्थः । धोती इति वसनविशेषधारितानां पण्डितानां वशे अयं विषयः नास्ति ।’’

‘‘मातः, भवत्या एव किमपि प्रवचनं देयम् इत्येतत्कथं भवेत् ?’’

‘‘नहि बन्धो, अहं वक्तुं न शक्ष्यामि । किमर्थं मां व्यर्थतया लज्जितां करोति भवान् ? पुनश्च कः किं कथयिष्यति?’’

एतावति समये धनिया नदीतः जलं गृहीत्वा आगता आसीत् । रामाबन्धुः एवम् अमन्यत - ‘‘एतस्याः एषा एव लज्जा अस्ति । कः किं कथयिष्यति? अनेन एव अस्याः सर्वमपि संहृतं विद्यते । अस्य उत्तरे सा किं वदेत् ? कदाचित् मुखतः किमपि निःसृतं भवेत् ? तथा एषा अपि महाराजानाम् एव धर्म पत्नी अस्ति । मौनं सर्वार्थसाधनम् इति इदमेव भद्रं भवेत् ।’’ एवं चिन्तयित्वा सः अवदत् - ‘‘भ्रातृजाये, अधुना प्रस्थितः भवामि अहम् । विजयादशमीदिनवत् भवत्याः अद्यापि हनुमत् मन्दिरं प्रति गमनागमनं भवतु ’’ इति कथयित्वा सः निर्गतः ।

तस्य निर्गमनान्ते सा अचिन्तयत् - रामाबन्धुः कियान् सज्जनः अस्ति । यदा कदापि समयप्राप्तिः भवेत् तदा तारापतेः विषये कुशलवार्ताः पृष्ट्वा निर्गच्छति । शास्त्रिवर्याणां समवयस्कः अस्ति, अतः एव मां भ्रातृजाया इति सम्बोधयति सः । मनसः एतादृशः पवित्रः मनुष्यः मया अन्यः न दृष्टः । मनसि यद् उद्भवति तत् सर्वमपि मम समक्षं स्पष्टं मण्डयति । सम्पूर्णग्रामः तस्य स्वभावस्य प्रशंसां करोति ।

एवं चिन्तयन्त्याः अस्याः समीपे धनिया आगता अभणत् च - ‘‘भगिनि, अद्य, ज्वरः प्रवर्धमानः विद्यते । यदि आगमनं शक्यं न भवेत् तदा मया सबदलियां मम स्नुषां वा प्रेष्यते । सा जलपूर्तिं कृत्वा गमिष्यति । सा सरला अज्ञानिनी अस्ति । सा प्रबोधिता करणीया भविष्यति।’’

रत्नावली तां ज्ञापितवती - ‘‘भवत्या चिन्ता न करणीया, स्वस्य कृते औषधादि कारणीयम् । अधुना एव रामाबन्धुः इतः गतः अस्ति । तस्मादेव किमपि औषधं ग्रहणीयम् । मया प्रेषिता भवती इत्यपि तस्मै निवेदनीयम् । पितृव्ये, अधुना तस्याः सरलीकरणस्य विषयः, तदा मम पितृचरणाः मम विषये कथयन्ति स्म, यत् अहं सरला, अज्ञा च अस्मि । अधुना पश्यतु, यत् मया ते एव गृहात् निष्कासिताः ।’’

धनिया एतस्य व्यंग्यस्य आनन्दे निमग्ना भवति स्म । हरको महोदया आगता, अभणत् च- ‘‘पश्यतु नु भ्रातृजाये, अद्य सः एवं वदन् आसीत् यत् भवती गृहं चलतु । अधुना अहं गृहं किमर्थं गच्छामि ? त्यक्तं गृहं, त्यक्तमेव मया । सः एतावान् मृन्नलिकामयः जातः अस्ति, यत् स्वशरीरस्य अपि सर्वनाशं कुर्वन् जीवति । एका भार्या गृहे तिष्ठन्ती जीवति, तामपि सुखेन न जीवयति अधुना अहं तत्र गत्वा किं करिष्ये ?’’

रत्नावली अजानात् - हरकोमहोदयायाः हृदयं विद्रोहं करोति अद्य । अतः एव सा पत्युः कथनस्य विरोधं करोति । समक्षं सः अस्ति, अतः तस्य मूल्यं न जानाति एषा, अन्यथा अहं कथं म्रियमाणा स्थिता अस्मि विरहवेदनाभिः । कामपीडा व्यक्तेः स्वमनसः जननी वर्तते । मनसि यथा चिन्तनं तथा शरीरे तस्य परिपूर्णतया प्रभावः भवति एव । चिन्तनस्य दिशा परिवर्तनीया, तदा मङ्गलमेव मङ्गलं भवति ।

रत्नावल्या हरकोमहोदया समाहूता - ‘‘हरको.......!’’

हरकोमहोदयया उत्तरं दत्तम् - ‘‘भ्रातृजाये, किम् ?’’

रत्नावल्या पुनरपि उक्तम् - ‘‘भवती भवत्याः पत्युः आज्ञां विना अत्र न आगच्छतु । श्वः सः कथयिष्यति यत् मया भवति विपरीता कृता अस्ति । यथा अहं जाता अस्मि तथैव भवती मया कृता अस्ति ।’’

किमपि कथनार्थं तस्याः अधरौ प्रचाल्यमानौ जातौ, ततः उक्तं तया - ‘‘भ्रातृजाये अहं काचिद् बाला नास्मि । स्वस्य हितम् अहितं च जानामि । अस्ति भवत्याः विषये कथनस्य श्रवणस्य विषयः - चन्द्रमसः उपरि कृतः थूत्कारः सः प्रत्यागत्य स्वस्य उपरि एव पतिष्यति ।’’

रत्नावली ज्ञातवती यत् तेन मम विषये अपि किमपि अवश्यं भावेन जल्पितं स्यात् । क्रोधं कृत्वा पृच्छामि तदा खलु मम विषये तस्य तत्कथनं तया लुप्तं क्रियते । वात्सल्येन पृच्छाकरणान्ते सर्वमपि व्यक्ततया कथयेत् सा । अतः क्रोधं निगृह्य मुखाकृतिं कृत्रिम - हास्यमयीं कृत्वा अपृच्छत् - ‘‘अरे मत्त: विलुप्तं कृत्वा भवत्या किमपि गोप्यते ? भवत्याः पतिः किम् अकथयत् ?’’

‘‘अकथयत् किम् ? एतदेव, भवत्याः उपरि थूत्कारं सः प्राचालयत् ।’’ एकं क्षणं मौनं धृत्वा पुनः अभणत् - ‘‘एतदेव, स्वशपथः यया पलायितः कृतः तत्पश्यामि, तया भवती कदापर्यन्तं स्थिरा स्थाप्यते ?’’

दीर्घश्वासं गृहीत्वा सा पुनः अपृच्छत् - ‘‘सः एतदेव अवदत् किम् ?’’

हरकोमहोदया दीनतां प्रदश्र्य अभणत् - ‘‘आम् भ्रातृजाये ।’’

रत्नावली सतां पुनरेकं प्रश्नं कृतवती - ‘‘भवत्या किं नु कथितम् ?’’

प्रश्नमेव श्रुत्वा आत्मविश्वासं प्रदर्शयन्ती सा उत्तरं दत्तवती - ‘‘मया कथितं, यदा तया निष्कासिता क्रियते तदापि भवतः गृहस्य देहलीमपि नागमिष्यामि । यमुनामातुः गृहं नास्ति दूरम् अल्पमपि ।’’

स्वविषये तस्याः परिपूर्णां निष्ठां ज्ञात्वा भावभरिता भूत्वा रत्नावल्या तस्यै दृढालिङ्गनं दत्तम् उक्तं च - ‘‘परित्यक्तानां स्त्रीणां मार्गः विधवानाम् अपेक्षया कठिनः भवति हरकोमहोदये।’’

हरकोमहोदया कथनपरिवर्तनं कुर्वती अवदत् - ‘‘भ्रातृजाये, कुम्भकारेण दीपकाः दत्ताः वा न वा ?’’

रत्नावल्या उत्तरं दत्तम् - ‘‘दीपकान् दत्वा निर्गतः सः । ते सम्मुखे आलवाले स्थापिताः वर्तन्ते । स्वच्छान् कृत्वा तान् स्थापयतु भवती । वर्तिकाः करोतु ।’’

ये बालकाः क्रीडनार्थं तारापतिं नीतवन्तः ते तं तारापतिं प्रत्यानीतवन्तः ।

विजयादशमीदिने तारापतिः इत्यनेन सह रत्नावली गता आसीत् । तथैव पुनः अद्य तारापतिः गृहीत्वा संकटमोचनहनुमतः मन्दिरे दीपकस्थापनार्थं सा अगच्छत् । तया दीपकः अर्चकाय दत्ता । अर्चकः तारापतिः इत्यस्य हस्तस्पर्शनं कारयित्वा दीपकं अस्थापितवान् । रत्नावल्याः मन्दिरं गमनान्तरं तत्र उत्सवसदृशं वातावरणं अभवत् । प्रत्यागमनसमये तूष्णीं गता सा ।

रात्रौ लक्ष्मीपूजनार्थम् उपविष्टा । धनिया अपि आगता । हरकोमहोदया तु तत्र आसीदेव। शास्त्रिवर्याः यां पद्वतिम् अनुसृत्य पूजा - अर्चनादिकं कुर्वन्ति स्म तया एव विधिना रत्नावल्या तारापतिद्वारा पूजार्चनादि कारितम् । देवताः कुलदेवताः च तारापतिं प्रणामिताः कारिताः ।

हरकोमहोदया तारापतिं मातुः चरणयोः उपावेशयत् । रत्नावल्या सर्वा स्वतपस्या अर्पिता तस्मै । ‘‘एकमेव साध्यम् अस्ति अधुना । तारापतिः महान् भवतु । पितृसदृशः विद्वान् संजायताम्। अखिलं विश्वं वदेत् यत् पश्यन्तु, शास्त्रिपुत्रः शास्त्रिवर्यवदेव विद्वान् अस्ति । तस्मिन् दिने एव मम साधना पूर्णा भविष्यति । तथैव तस्य लक्षणानि अधुना सुष्ठु दृश्यन्ते । कथनमेकं तु मुखात् निःसृतं भवति यत् उच्चारणं तस्य एतादृशं शुद्धं वर्तते तथा उच्चारणं संस्कृतस्य प्रगाढ - पण्डिताः अपि कर्तुं न शक्ष्यन्ति ।’’ एतत् चिन्तयित्वा सा सन्तोषं प्राप्नोति स्म ।

एतत् चिन्तयन्ती सा प्राङ्गणं अपश्यत् । प्राङ्गणे दीपमाला प्रद्योतमाना अवर्तत । हरकोमहोदया अदाहक - मन्दाग्निकण - प्रसारिणीः तन्त्रीः तारापति - द्वारा प्रचाल्य तं प्रयासपरा अवर्तत ।

दीपोत्सवः रत्नावल्याः मनसि जीवनस्य नवोत्साहं समुदपाद्यत ।